Rhymes - (H1) Higher Learning







गज आयाहि गज आयाहि!

गज आयाहि रे

उदरं लम्बम् अस्ति,

दन्तौ सितौ स्तः

शुण्डा दीर्घा अस्ति,

कर्णौ विततौ स्तः

गज आयाहि गज आयाहि!

गज आयाहि रे

पुच्छं तुच्छम् अस्ति |

नेत्रे अल्पे स्तः |

कायं भाण्डम् अस्ति |

पादाः स्तम्भाः सन्ति |

गज आयाहि ||







कुत्र त्वं गच्छसि?

उद्यानं गच्छामि ।

तत्र किं पश्यसि?

पुष्पवाटिकां पश्यामि ।

दृष्ट्वा किं करोषि?

भ्रमणं करोमि ।

तेन किं जायते?

आरोग्यं वर्धते ।







रक्तपुष्पम् आनय ।

गणेशाय समर्पय ॥

श्वेतपुष्पम् आनय ।

शारदायै अर्पय ॥

नीलपुष्पम् आहर ।

नारायणाय उपहर ॥

सुवर्णपुष्पम् आहर ।

सदाशिवाय उपहर ॥









अ तः अजः, आ तः आकाशः।

इ तः इभः, ई तः ईशः।

उ तः उदरम्, ऊ तः ऊरुः।

ऋ तः ऋषिः, ऋ ॠ ऌ ।

ए तः एकम्, ऐ तः ऐरावतः।

ओ तः ओष्ठः, औ तः औषधम्॥

अं तः अंशुमान्, अः तः रामः।

वर्णान् एतान् सुष्ठु पठाम॥







अजः आवते

अश्वः हेषते

मेषः आवते

शुनकः भषति

सिंहः गर्जति

वृकः विरौति

व्याघ्रः गर्जति

शृगालः विरौति

कोकिलः कूजति

शुकः वदति

काकः कायते

मयूरः केकायते







रामः याति । रामः याति ।

सीतया सह । सीतया सह ।

कुत्र सः याति ? कुत्र सः याति ?

सरयूनदीम् ।

कृष्णः याति । कृष्णः याति ।

राधया सह । राधया सह ।

कुत्र सः याति ?

यमुनानदीम् ।

विठ्ठलः याति । विठ्ठलः याति ।

रुक्मिण्या सह । रुक्मिण्या सह ।

कुत्र सः याति ?

चन्द्रभागाम् ।










टिं टिं टिं टिं नक्षत्रम्।

चित्रं चित्रं नक्षत्रम्।

दूरे दूरे तदस्ति

आकाशे चकास्ति॥







वर्षे वर्षे दूरं गच्छ

अपरे दिवसे पुनरागच्छ ।

रामः क्रीडितुम् इच्छति

कृष्णः खेलितुम् इच्छति ॥







प्रातःकाले स्मरणीयम्।

दन्तधावनं करणीयम्॥

सम्यक् स्नानं करणीयम्।

देवस्मरणं करणीयम्॥

विद्याभवनं गमनीयम्।

तत्र पठनं करणीयम्॥

सायं नाट्यं नटनीयम्।

रात्रौ शयनं करणीयम्॥










राम! राम!

आं तात ।

गुडं खादसि

नहि तात ॥

मिथ्या वदसि

नहि तात ।

मुखमुद्घाटय

हा हा हा ॥







शुभदिनस्य शुभेच्छाः

शुभाशयान् वदाम ।

सर्वकामान् विन्दत

सर्वविद्यामाप्नुत ॥

सर्वप्रेमपात्रतां

सर्वजीवमधुरताम् ।

सर्वदेवभक्ततां

सर्वजयमवाप्नुत ॥







मम दश अङ्गुल्यः

द्वे मम नेत्रे

एका दीर्घा नासिका

द्वौ मम कर्णौ

बहवः दन्ताः

एका जिह्वा

एकं वदनं

देवकीर्तनाय










उद्यानं गच्छामि

मित्रैः साकं क्रीडामि ।

मित्रैः साकम् एकीभूय

लोककार्यं रचयामि ॥







एको देवो लोकेषु

एका शक्तिस्सर्वत्र |

एकं ब्रह्म परमात्मा

एकीकरणं कर्तव्यम् ॥

द्वौ हस्तौ उपयुज्य

द्वौ कर्णौ उद्घाट्य ।

द्वे नेत्रे उन्मील्य

सर्वद्वन्द्वं जेतव्यम् ॥







मार्गं पश्य मार्गं पश्य

यानं याति भोः

यानं याति भोः

नानारूपं यानम्

नानावर्णं यानम् ॥

एकचक्रं यानं

क्रीडारङ्गे अस्ति ।

द्विचक्रकं यानं

ग्रामे नगरे चास्ति ॥

त्रिचक्रकं यानं

शीघ्रगामि भवति ।

चतुश्चक्रं यानं

सर्वोपयोगि भवति ॥

भारवाहकं पश्य

कारयानं पश्य ।

धूमशकटं पश्य

लोकयानं पश्य ॥

विद्युच्छकटं पश्य

विमानमेकं पश्य ।

क्षेपणीयानं पश्य

पुष्पकयानं चिन्तय ॥










गुरुं वन्दे मातृरूपम्

गुरुं वन्दे पितृरूपम् ।

गुरुं वन्दे करुणामयम्

गुरुं वन्दे सुज्ञानमयम् ॥

गुरुं वन्दे सिद्धिप्रदम्

गुरुं वन्दे बुद्धिप्रदम् ।

गुरुं वन्दे विमलमतिम्

गुरुं वन्दे अमलकृतिम् ॥







कुरु मम कर्णौ सच्छ्रुतिमन्तौ

गजकर्णाविव सुविशालौ ।

कुरु मम नेत्रे सुदृष्टिशीले

गृध्रस्य समे अतिसूक्ष्मे ॥

कुरु मम हस्तौ सत्कार्यरतौ

कपिहस्ताविव ग्रहणपटू ।

कुरु मम चरणौ सत्पथगमनौ

अश्वस्येव विवृद्धवेगौ ॥

कुरु मम पृष्ठमतीव समर्थम्

भारोद्वहने गर्दभसदृशम् ।

कुरु मम चित्तं कलुषविहीनम्

धेनोस्तनुमिव परमपवित्रम् ॥

कुरु मम देहं सदृढम् अरोगम्

अङ्गन्यपि बहुबलवन्ति ।

यैः सहितोऽहं जीवनपूर्णम्

करोमि भगवन् तव सेवाम् ॥







माता वदति मोदकं खाद

पिता वदति पाठं पठ रे ।

भ्राता वदति नृत्यं कुरु भोः

भगिनी वदति गीतं गायतु ॥

मातुलो वदति क्रीडां क्रीड

पितृव्यो वदति गृहं गच्छ ।

मित्रं वदति निद्रां कुरु हे

एकशरीरी करवाणि किं वा ॥










पाठशालां गच्छामि॥

आचार्यानहं प्रणमामि॥

मित्रैः साकं वर्गं गत्वा॥

अक्षरमालां कथयामि ॥॥

अरुणः वदति अ आ इ ई॥

उदयः भणति उ ऊ ऋ ॠ ऌ॥

एला कथयति ए ऐ ओ औ॥

अहमपि वदामि अं अः ॥॥

कृष्णः कथयति क ख ग घ ङ॥

चैत्रा वदति च छ ज झ ञ॥

टामः ब्रवीति ट ठ ड ढ ण॥

तारा भणति त थ द ध न॥

पवनः पठति प फ ब भ म॥

यमुना वदति य र ल व॥

शङ्कर आह श ष स ह॥

इत्थं सर्वे वदाम वर्णान् ॥







एकमभूत् काननम्।

द्वौ तत्र महावृक्षौ।

त्रयोराधः स्त्रयो मृगाः |

चत्वारश्चैव शावकाः।

व्याधाः पञ्च तत्र प्राप्य

षट्सु जालेषु तान् संगृह्य।

सप्त मृगा अद्यलब्धा

इत्यनन्दन् परमलुब्धाः॥

अष्ट शुकाः एतद् वीक्ष्य

नवबिलेषु चिरम् अन्विष्य ।

दश समानयन् वेगेन

मूषकान् सुतीक्ष्णदन्तान्॥

ुकालापसक्तेषु व्याधेषु,

मूषकैश्च छिन्नेषु जालेषु।

मृगाः द्रुताः शुकाः प्लुताः

मूषकाश्च बिलं प्रविष्टाः॥

Note: There is high resolution videos' content in some part of this page which may takes sometime for loading. We thank you for your patience.